चतुर्थ: पाठ: - जननी तुल्यवत्सला
कक्षा - 10वीं NCERT SANSKRIT
संपूर्ण अभ्यास कार्य
प्रश्न 1. एकपदेन उत्तरं लिखत-
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?
उत्तर: कृषकः (कृषीवलः)
(ख) वृषभः कुत्र पपात?
उत्तर: क्षेत्रे (भूमौ)
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तर: मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तर: बलीवर्दयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तर: प्रवर्षः
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषकः किं करोति स्म?
उत्तर: कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तर: भूमौ पतितं स्वपुत्रं (दुर्बलं वृषभं) दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किम् उत्तरं ददाति?
उत्तर: सुरभिः उत्तरं ददाति यत् सा स्वपुत्रस्य दैन्यं दृष्ट्वा रोदिति।
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तर: मातुः अधिका कृपा दुर्बले सुते भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तर: इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्षम् (वृष्टिं) कृतवान्।
(च) जननी कीदृशी भवति?
उत्तर: जननी तुल्यवत्सला भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर: पाठेऽस्मिन् इन्द्र-सुरभ्योः संवादः विद्यते।
प्रश्न 3. 'क' स्तम्भे दत्तानां पदानां मेलनं 'ख' स्तम्भे दत्तैः समानार्थकपदैः कुरुत-
(क) कृच्छ्रेण — (i) वृषभः
(ख) चक्षुर्भ्याम् — (ii) सुताः
(ग) जवेन — (iii) अचिरादेव
(घ) इन्द्रः — (iv) काठिन्येन
(ङ) पुत्राः — (v) नेत्राभ्याम्
(च) शीघ्रमेव — (vi) वासवः
(छ) बलीवर्दः — (vii) तीव्रगत्या
(ख) चक्षुर्भ्याम् — (ii) सुताः
(ग) जवेन — (iii) अचिरादेव
(घ) इन्द्रः — (iv) काठिन्येन
(ङ) पुत्राः — (v) नेत्राभ्याम्
(च) शीघ्रमेव — (vi) वासवः
(छ) बलीवर्दः — (vii) तीव्रगत्या
उत्तर:
(क) कृच्छ्रेण — काठिन्येन
(ख) चक्षुर्भ्याम् — नेत्राभ्याम्
(ग) जवेन — तीव्रगत्या
(घ) इन्द्रः — वासवः
(ङ) पुत्राः — सुताः
(च) शीघ्रमेव — अचिरादेव
(छ) बलीवर्दः — वृषभः
(क) कृच्छ्रेण — काठिन्येन
(ख) चक्षुर्भ्याम् — नेत्राभ्याम्
(ग) जवेन — तीव्रगत्या
(घ) इन्द्रः — वासवः
(ङ) पुत्राः — सुताः
(च) शीघ्रमेव — अचिरादेव
(छ) बलीवर्दः — वृषभः
प्रश्न 4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) सः कृच्छ्रेण भारमुद्वहति।
उत्तर: सः केन भारमुद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्।
उत्तर: कः ताम् अपृच्छत्?
(ग) अयम् अन्येभ्यः दुर्बलः।
उत्तर: अयम् केभ्यः दुर्बलः?
(घ) धेनुनां माता सुरभिः आसीत्।
उत्तर: धेनुनां माता का आसीत्? (कासाम् माता सुरभिः आसीत्?)
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्।
उत्तर: केषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्?
प्रश्न 5. रेखाङ्किते पदे यथास्थानं सन्धिविच्छेदं वा कुरुत-
(क) कृषकः क्षेत्रकर्षणं कुर्वन् + आसीत्।
उत्तर: कुर्वन्नासीत्
(ख) तयोः + एकः वृषभः दुर्बलः आसीत्।
उत्तर: तयोरेकः
(ग) तथापि वृषः न + उत्थितः।
उत्तर: नोत्थितः
(घ) सत्सु + अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तर: सत्स्वपि
(ङ) तथा + अपि + अहम् + एतस्मिन् प्रीतिम् अनुभवामि।
उत्तर: तथाप्यहमेतस्मिन्
(च) मे बहुनि + अपत्यानि सन्ति।
उत्तर: बहून्यपत्यानि
(छ) सर्वत्र जलोपप्लवः सञ्जातः।
उत्तर: जल + उपप्लवः
प्रश्न 6. अधोलिखितेषु वाक्येषु रेखाङ्कितसर्वनामपदं कस्मै प्रयुक्तम्?
(क) सा च अवदत्- भो वासव! अहं भृशं दुःखी अस्मि।
उत्तर: सुरभ्यै (धेनवे)
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तर: सुरभ्यै
(ग) सः दीनः इति जानन्नपि कृषकः तम् पीडयति।
उत्तर: वृषभाय (बलीवर्दाय)
(घ) मे बहुन्यपत्यानि सन्ति।
उत्तर: सुरभ्यै
(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तर: इन्द्राय (वासवाय)
(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर: सुरभ्यै
प्रश्न 7. (क) 'क' स्तम्भे विशेषणपदं लिखितं 'ख' स्तम्भे पुनः विशेष्यपदम्। तयोर्मेलनं कुरुत-
(क) कश्चित् — (i) वृषभम्
(ख) दुर्बलम् — (ii) कृषीवलः
(ग) क्रुद्धः — (iii) पुत्रेषु
(घ) सहस्राधिकेषु — (iv) कृपा
(ङ) अभ्यधिका — (v) आखण्डलः
(च) विस्मितः — (vi) जननी
(छ) तुल्यवत्सला — (vii) कृषकः
(ख) दुर्बलम् — (ii) कृषीवलः
(ग) क्रुद्धः — (iii) पुत्रेषु
(घ) सहस्राधिकेषु — (iv) कृपा
(ङ) अभ्यधिका — (v) आखण्डलः
(च) विस्मितः — (vi) जननी
(छ) तुल्यवत्सला — (vii) कृषकः
उत्तर:
(क) कश्चित् — कृषकः
(ख) दुर्बलम् — वृषभम्
(ग) क्रुद्धः — कृषीवलः
(घ) सहस्राधिकेषु — पुत्रेषु
(ङ) अभ्यधिका — कृपा
(च) विस्मितः — आखण्डलः
(छ) तुल्यवत्सला — जननी
(क) कश्चित् — कृषकः
(ख) दुर्बलम् — वृषभम्
(ग) क्रुद्धः — कृषीवलः
(घ) सहस्राधिकेषु — पुत्रेषु
(ङ) अभ्यधिका — कृपा
(च) विस्मितः — आखण्डलः
(छ) तुल्यवत्सला — जननी
Comments
Post a Comment