तृतीयः पाठः - गोदोहनम् (अभ्यासः)
1. एकपदेन उत्तरं लिखत-
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
उत्तर: काशीविश्वनाथमन्दिरम्
(ख) उमायाः पितामहेन कतिसेटकमितं दुग्धम् अपेक्ष्यते स्म?
उत्तर: त्रिशतसेटकम् (त्रिशत)
(ग) कुम्भकारः घटान् किमर्थं रचयति?
उत्तर: जीविकाहतोः
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धयन्ति स्म?
उत्तर: मोदकानि
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तर: चन्दनः
2. पूर्णवाक्येन उत्तरं लिखत-
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः सेवां कथम् अकुरुताम्?
उत्तर: मल्लिका चन्दनश्च मासपर्यन्तं धेनोः सेवां घासादिकं गुडादिकं च भोजयित्वा, कदाचित् विषाणयोः तैलं लेपयित्वा, तिलकं धारयित्वा, रात्रौ नीराजनेनापि तोषयित्वा अकुरुताम्।
(ख) कालः कस्य रसं पिबति?
उत्तर: कालः क्षिप्रमक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तर: तदा कुम्भकारः वदति - "पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।"
(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्?
उत्तर: मल्लिकया दृष्टं यत् मासपर्यन्तं दोहनं न कृतम्, तेन सा पीडाम् अनुभवति, अत एव सा ताडयति इति धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
उत्तर: मासान्ते ग्रामप्रमुखस्य गृहे महोत्सवे त्रिशतसेटकपरिमितं दुग्धं दातुम्, येन बहुधनं प्राप्येत इति मासपर्यन्तं धेनोः अदोहनस्य कारणमासीत्।
3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
उत्तर: मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
उत्तर: चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्?
उत्तर: कानि पूजानिमित्तानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते?
उत्तर: मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?
उत्तर: का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?
5. घटनाक्रमानुसारं लिखत -
उत्तर: (सही क्रम)
- (घ) मल्लिका पूजार्थं मोदकानि रचयति।
- (क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं गच्छति।
- (ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
- (ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
- (ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
- (छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
- (ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
- (च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत-
उदाहरणम्- स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।
कः/का - मल्लिका
कं/काम् - चन्दनं प्रति
(क) धन्यवाद मातुल! याम्यधुना।
कः/का - उमा
कं/काम् - चन्दनं प्रति
(ख) त्रिशेटकामितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।
कः/का - चन्दनः
कं/काम् - उमां प्रति
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।
कः/का - चन्दनः
कं/काम् - देवेशं (कुम्भकारं) प्रति
(घ) पुत्रिके! नाहं पापकर्म करोमि।
कः/का - देवेशः (कुम्भकारः)
कं/काम् - मल्लिकां प्रति
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथाऽनुचितं कृतम्।
कः/का - चन्दनः
कं/काम् - मल्लिकां प्रति
7. पाठस्य आधारेण प्रदत्तपदानां संधिं/संधिच्छेदं वा कुरुत -
(क) शिवास्ते = ....................... + .......................
उत्तर: शिवाः + ते
(ख) मनः + हरः = .......................
उत्तर: मनोहरः
(ग) सप्ताहान्ते = ....................... + .......................
उत्तर: सप्ताह + अन्ते
(घ) नेच्छामि = ....................... + .......................
उत्तर: न + इच्छामि
(ङ) अत्युत्तमः = ....................... + .......................
उत्तर: अति + उत्तमः
(अ) पाठाधारेण अधोलिखितपदानां प्रकृतिं प्रत्ययं च संयोज्य/विभज्य वा लिखत-
(क) करणीयम् = ....................... + .......................
उत्तर: कृ + अनीयर्
(ख) वि+क्री+ल्यप् = .......................
उत्तर: विक्रीय
(ग) पठितम् = ....................... + .......................
उत्तर: पठ् + क्त
(घ) तड्+क्त्वा = .......................
उत्तर: ताडयित्वा
(ङ) दोग्धुम् = ....................... + .......................
उत्तर: दुह् + तुमुन्
Comments
Post a Comment