Class 10 Sanskrit NCERT solution chapter 7 || class 10th Sanskrit Vichitra Sakshi chapter solution

Class 10 Sanskrit NCERT Chapter 7

Download Mains Education App

Class 10 Sanskrit (शेमुषी)
Chapter 7 - विचित्रः साक्षी

प्रश्न 1: एकपदेन उत्तरं लिखत

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?उत्तर: विजने
(ख) अतिथिः केन प्रबुद्धः?उत्तर: पादध्वनिना
(ग) कृशकायः कः आसीत्?उत्तर: अभियुक्तः (अतिथिः)
(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?उत्तर: आरक्षिणे
(ङ) कम् निकषा मृतशरीरम् आसीत्?उत्तर: राजमार्गम्

प्रश्न 2: पूर्णवाक्येन उत्तरं लिखत

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?उत्तर: निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(ख) जनः किमर्थं पदातिः गच्छति?उत्तर: परमर्थकार्श्येन पीडितः स जनः बसयानं विहाय पदातिः एव गच्छति।
(ग) प्रसृते निशान्धकारे सः किम् अचिन्तयत्?उत्तर: प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न सुखावहा इति सः अचिन्तयत्।
(घ) वस्तुतः चौरः कः आसीत्?उत्तर: वस्तुतः ग्रामस्य आरक्षी एव चौरः आसीत्।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किम् उक्तवान्?उत्तर: जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्- "रे दुष्ट! तस्मिन् दिने त्वया अहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व।"

प्रश्न 3: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) पुत्रं द्रष्टुं स प्रस्थितः।उत्तर: कम् द्रष्टुं स प्रस्थितः?
(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।उत्तर: करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।उत्तर: कस्य पादध्वनिना अतिथिः प्रबुद्धः?
(घ) न्यायाधीशः बङ्किमचन्द्रः आसीत्।उत्तर: कः बङ्किमचन्द्रः आसीत्?
(ङ) स भारवेदनया क्रन्दति स्म।उत्तर: स कया क्रन्दति स्म?

प्रश्न 4: सन्धिविच्छेदं कुरुत

(क) पदातिरेवउत्तर: पदातिः + एव
(ख) निशान्धकारेउत्तर: निशा + अन्धकारे
(ग) इत्युक्त्वाउत्तर: इति + उक्त्वा
(घ) प्रबुद्धोऽतिथिःउत्तर: प्रबुद्धः + अतिथिः

Comments