Class 10 Sanskrit NCERT Chapter 6
Download Mains Education App
Class 10 Sanskrit (शेमुषी)
Chapter 6 - सौहार्दं प्रकृतेः शोभा
प्रश्न 1: एकपदेन उत्तरं लिखत
(क) वनराजः कैः दुरवस्थां प्राप्तः?उत्तर: तुच्छजीवैः (वानरैः)
(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?उत्तर: काकः
(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते ?उत्तर: आदर्शच्छात्रः
(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?उत्तर: गजः
(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?उत्तर: वराकान् मीनान्
प्रश्न 2: पूर्णवाक्येन उत्तरं लिखत
(क) निःसंशयं कः कृतान्तः मन्यते ?उत्तर: यः पार्थिवरूपेण सदा परैः पीड्यमानान् वित्रस्तान् जन्तून् न रक्षति, सः निःसंशयं कृतान्तः मन्यते।
(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?उत्तर: बकः शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति ?उत्तर: अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति यत् “भोः भोः प्राणिनः! यूयं सर्वे एव मे सन्ततिः। कथं मिथः कलहं कुर्वन्ति? वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः सन्ति।”
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत् ?उत्तर: यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा नौरिव जलधौ विप्लवेत्।
(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?उत्तर: मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति।
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति?उत्तर: अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवन्ति।
(छ) अस्मिन् नाटके कति पात्राणि सन्ति?उत्तर: अस्मिन् नाटके विविध पशुपक्षिणः दश पात्राणि सन्ति।
प्रश्न 3: रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।उत्तर: सिंहः वानराभ्यां कस्याम् असमर्थः एवासीत् ?
(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।उत्तर: गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?
(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।उत्तर: वानरः आत्मानं कस्मै योग्यः मन्यते?
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।उत्तर: मयूरस्य नृत्यं कस्याः आराधना?
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।उत्तर: सर्वे काम् प्रणमन्ति?
प्रश्न 4: शुद्ध/अशुद्ध कथनानि लिखत
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।उत्तर: न
(ख) का-का इति बकस्य ध्वनिः भवति।उत्तर: न
(ग) काकपिकयोः वर्णः कृष्णः भवति।उत्तर: आम्
(घ) गजः लघुकायः निर्बलः च भवति।उत्तर: न
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।उत्तर: आम्
Comments
Post a Comment