कक्षा 10वीं संस्कृत द्वितीय पाठ बुद्धिबलवती सदा// Class 10th Sanskrit chapter 2 buddhurbalwati sada full solution

Class 10 Sanskrit Chapter 2 Solutions - MAINS EDUCATION

कक्षा 10वीं संस्कृत के नोट्स Mains Education App से आज ही खरीदें

Excellence in NCERT Learning

Class 10th Sanskrit (शेमुषी भाग-2)

द्वितीयः पाठः - बुद्धिर्बलवती सदा (NCERT Solutions)

प्रश्न 1. एकपदेन उत्तरं लिखत-
(क) बुद्धिमती कुत्र व्याघ्रं ददर्श?
उत्तर: गहनकानने
(ख) भामिनी कया विमुक्ता?
उत्तर: निजबुद्ध्या
(ग) सर्वदा सर्वकार्येषु का बलवती?
उत्तर: बुद्धिः
(घ) व्याघ्रः कस्मात् बिभेति?
उत्तर: मानुषात्
(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तर: शृगालम् (जम्बुकम्)
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?
उत्तर: बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(ख) व्याघ्रः किं विचार्य पलायित:?
उत्तर: 'इयं काचित् व्याघ्रमारी' इति विचार्य व्याघ्रः पलायितः।
(ग) लोके महतो भयात् कः मुच्यते?
उत्तर: लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तर: 'भवान् कुतः भयात् पलायितः?' इति वदन् जम्बुकः व्याघ्रस्य उपहासं करोति।
(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तर: बुद्धिमती शृगालम् उक्तवती- "रे रे धूर्त! त्वया मह्यं पुरा व्याघ्रत्रयं दत्तम्। विश्वास्याद्य एकमानीय कथं यासि वदाधुना।"
प्रश्न 3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
उत्तर: तत्र राजसिंहो नाम कः वसति स्म?
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
उत्तर: बुद्धिमती कया पुत्रौ प्रहृतवती?
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
उत्तर: कम् दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वं मानुषात् बिभेषि।
उत्तर: त्वं कस्मात् बिभेषि?
(ङ) पुरा त्वया मह्यम् व्याघ्रत्रयं दत्तम्।
उत्तर: पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?
प्रश्न 4. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं योजयत-
शुद्धः घटनाक्रमः (Correct Sequence):
  1. (च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
  2. (घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
  3. (ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच- अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
  4. (क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
  5. (ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
  6. (ख) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
  7. (छ) 'त्वं व्याघ्रत्रयम् आनेतुम्' प्रतिज्ञाय एकमेव आनीतवान्।
  8. (ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः।
प्रश्न 5. सन्धिं/सन्धिविच्छेदं कुरुत-
(क) पितुर्गृहम् = पितुः + गृहम्

(ख) एकैकशः = एक + एकशः

(ग) अन्योऽपि = अन्यः + अपि

(घ) इत्युक्त्वा = इति + उक्त्वा

(ङ) यत्रास्ते = यत्र + आस्ते
प्रश्न 6. अधोलिखितानां पदानाम् अर्थं कोष्ठकात् चित्वा लिखत-
(क) ददर्श = अपश्यत्

(ख) जगाद = अकथयत्

(ग) ययौ = गतवान्

(घ) अत्तुम् = खादितुम्

(ङ) मुच्यते = मुक्तो भवति

(च) ईक्षते = पश्यति

Comments