कक्षा 10वीं संस्कृत जननी तुल्यवत्सला पाठ का संपूर्ण सॉल्यूशन। Class 10th NCERT Sanskrit Chapter 4 Janani Tulyavatsala Solution Pdf
Mains Education
Classes 8th to 12th | MP Board & NCERT
चतुर्थः पाठः - जननी तुल्यवत्सला
(सम्पूर्ण हल)
प्रश्न 1. एकपदेन उत्तरं लिखत-
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?
उत्तर: कृषकः
(ख) वृषभः कुत्र पपात?
उत्तर: भूमौ
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तर: मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तर: बलीवर्दयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तर: प्रवर्षः
प्रश्न 2. पूर्णवाक्येन उत्तरत-
(क) कृषकः किं करोति स्म?
उत्तर: कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तर: भूमौ पतितं स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किम् उत्तरं ददाति?
उत्तर: सुरभिः इन्द्रस्य प्रश्नस्य उत्तरं ददाति यत् सा स्वपुत्रस्य दैन्यं दृष्ट्वा रोदिति।
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तर: मातुः अधिका कृपा दुर्बले (दीने) सुते भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तर: इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं वृष्टिं (प्रवर्षं) कृतवान्।
(च) जननी कीदृशी भवति?
उत्तर: जननी तुल्यवत्सला भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर: पाठेऽस्मिन् इन्द्र-सुरभ्योः संवादः विद्यते।
प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) सः कृच्छ्रेण भारमुद्वहति।
उत्तर: सः केन भारमुद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्।
उत्तर: कः ताम् अपृच्छत्?
(ग) अयम् अन्यभ्यः दुर्बलः।
उत्तर: अयम् केभ्यः दुर्बलः?
(घ) धेनूनां माता सुरभिः आसीत्।
उत्तर: धेनूनां माता का आसीत्?
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर: केषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति?
🎓 Mains Education से जुड़ें
कक्षा 8वीं से 12वीं तक के सभी विषयों के बेहतरीन नोट्स, वीडियो क्लासेज और परीक्षा की पूरी तैयारी के लिए अभी हमारा ऐप डाउनलोड करें।
Comments
Post a Comment